Skip to content

Commit

Permalink
abhidhAnachintAmaNiparishiShTa added
Browse files Browse the repository at this point in the history
• Loading branch information
drdhaval2785 committed Dec 6, 2023
1 parent 5aeccca commit 0be164c
Show file tree
Hide file tree
Showing 2 changed files with 1,161 additions and 0 deletions.
Original file line number Diff line number Diff line change
@@ -1,3 +1,9 @@

#bookname=abhidhAnachintAmaNi (sa-sa)
#stripmethod=keep
#sametypesequence=h
#description=Data from https://github.com/sanskrit-kosha/kosha as on 2023-12-06

अर्हन्|जिन|पारगत|त्रिकालवित्|क्षीणाष्टकर्मन्|परमेष्ठिन्|अधीश्वर|शम्भु|स्वयम्भू|भगवत्|जगत्प्रभु|तीर्थङ्कर|तीर्थकर|जिनेश्वर|स्याद्वादिन्|अभयद|सार्व|सर्वज्ञ|सर्वदर्शिन्|केवलिन्|देवाधिदेव|बोधिद|पुरुषोत्तम|वीतराग|आप्त
अर्हन्;पुं
प्रणिपत्यार्हतः सिद्धसाङ्गशब्दानुशासनः ।
रूढयौगिकमिश्राणां नाम्नां मालां तनोम्यहम् ॥ १ ॥
व्युत्पत्तिरहिताः शब्दा रूढा आखण्डलादयः ।
योगोऽन्वयः स तु गुणक्रियासंबन्धसंभवः ॥ २ ॥
गुणतो नीलकण्ठाद्याः क्रियातः स्रष्टृसंनिभाः ।
स्वस्वामित्वादिसंबन्धस्तत्राहुर्नाम तद्वताम् ॥ ३ ॥
स्वात्पालधनभुग्नेतृपतिमत्वर्थकादयः ।
भूपालो भूधनो भूभुग्भूनेता भूपतिस्तथा ॥ ४ ॥
भूमाँश्चेति कविरूढ्या ज्ञेयोदाहरणावली ।
जन्यात्कृत्कर्तृसृट्स्रष्टृविधातृकरसूसमाः ॥ ५ ॥
जनकाद्योनिजरुहजन्मभूसूत्यणादयः ।
धार्याद्ध्वजास्त्रपाण्यङ्कमौलिभूषणभृन्निभाः ॥ ६ ॥
शालिशेखरमत्वर्थमालिभर्तृधरा अपि ।
भोज्याद्भुगन्धोव्रतलिट्पायिपाशाशनादयः ॥ ७ ॥
पत्युः कान्ताप्रियतमावधूप्रणयिनीनिभाः ।
कलत्राद्वररमणप्रणयीशप्रियादयः ॥ ८ ॥
सख्युः सखिसमा वाह्याद्गामियानासनादयः ।
ज्ञातेः स्वसृदुहित्रात्मजाग्रजावरजादयः ॥ ९ ॥
आश्रयात्सद्मपर्यायशयवासिसदादयः ।
वध्याद्भिद्द्वेषिजिद्घातिध्रुग्रिपुध्वंसिशासनाः ॥ १० ॥
अप्यन्तकारिदमनदर्पच्छिन्मथनादयः ।
विवक्षितो हि संबन्ध एकतोऽपि पदात्ततः ॥ ११ ॥
प्राक्प्रदर्शितसंबन्धिशब्दा योज्या यथोचितम् ।
दृश्यते खलु वाह्यत्वे वृषस्य वृषवाहनः ॥ १२ ॥
स्वत्वे पुनर्वृषपतिर्धार्यत्वे वृषलाञ्छनः ।
अंशोर्धार्यत्वेंऽशुमाली स्वत्वेंऽशुपतिरंशुमान् ॥ १३ ॥
वध्यत्वेऽहेरहिरिपुर्भोज्यत्वे चाहिभुक्शिखी ।
चिह्नैर्व्यक्तैर्भवेद्व्यक्तेर्जातिशब्दोऽपि वाचकः ॥ १४ ॥
तथाह्यगस्तिपूता दिग्दक्षिणाशा निगद्यते ।
अयुग्विषमशब्दौ त्रिपञ्चसप्तादिवाचकौ ॥ १५ ॥
त्रिनेत्रपञ्चेषुसप्तपलाशादिषु योजयेत् ।
गुणशब्दो विरोध्यर्थं नञादिरितरोत्तरः ॥ १६ ॥
अभिधत्ते यथा कृष्णः स्यादसितः सितेतरः ।
वार्ध्यादिषु पदे पूर्वे वाडवाग्न्यादिषूत्तरे ॥ १७ ॥
द्वयेऽपि भूभृदाद्येषु पर्यायपरिवर्तनम् ।
एवं परावृत्तिसहा योगाः स्युरिति यौगिकाः ॥ १८ ॥
मिश्राः पुनः परावृत्त्यसहा गीर्वाणसंनिभाः ।
प्रवक्ष्यन्तेऽत्र लिङ्गं तु ज्ञेयं लिङ्गानुशासनात् ॥ १९ ॥
देवाधिदेवाः प्रथमे काण्डे देवा द्वितीयके ।
नरस्तृतीये तिर्यञ्चस्तुर्य एकेन्द्रियादयः ॥ २० ॥
एकेन्द्रियाः पृथिव्यम्बुतेजोवायुमहीरुहः ।
कृमिपीलकलूताद्याः स्युर्द्वित्रिचतुरिन्द्रियाः ॥ २१ ॥
पञ्चेन्द्रियाश्चेभकेकिमत्स्याद्याः स्थलखाम्बुगाः ।
पञ्चेन्द्रिया एव देवा नरा नैरयिका अपि ॥ २२ ॥
नारकाः पञ्चमे साङ्गाः षष्ठे साधारणाः स्फुटम् ।
प्रस्तोष्यन्तेऽव्ययाश्चात्र त्वन्ताथादी न पूर्वगौ ॥ २३ ॥

अर्हञ्जिनः पारगतस्त्रिकालवित्क्षीणाष्टकर्मा परमेष्ठ्यधीश्वरः ।
शंभुः स्वयंभूर्भगवाज्जगत्प्रभुस्तीर्थंकरस्तीर्थकरो जिनेश्वरः ॥ २४ ॥
स्याद्वाद्यभयदसार्वाः सर्वज्ञः सर्वदर्शिकेवलिनौ ।
देवाधिदेवबोधिदपुरुषोत्तमवीतरागाप्ताः ॥ २५ ॥
verse details: देवाधिदेवकाण्डः...25
page: 0005

Expand Down
Loading

0 comments on commit 0be164c

Please sign in to comment.